filmov
tv
146 - Bhagavad Geetā Shānkara Bhāshya Chapter -6 - Verse -35
Показать описание
146 - Bhagavad Geetā Shānkara Bhāshya Chapter -6 - Verse -35
June 14, 2023
श्रीभगवानुवाच —
असंशयं महाबाहो मनो दुर्निग्रहं चलम् ।
अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ॥ ३५ ॥
असंशयं नास्ति संशयः ‘मनो दुर्निग्रहं चलम्’ इत्यत्र हे महाबाहो । किन्तु अभ्यासेन तु अभ्यासो नाम चित्तभूमौ कस्याञ्चित् समानप्रत्ययावृत्तिः चित्तस्य । वैराग्येण वैराग्यं नाम दृष्टादृष्टेष्टभोगेषु दोषदर्शनाभ्यासात् वैतृष्ण्यम् । तेन च वैराग्येण गृह्यते विक्षेपरूपः प्रचारः चित्तस्य । एवं तत् मनः गृह्यते निगृह्यते निरुध्यते इत्यर्थः ॥ ३५ ॥