53-Bhagavad Geetā (Shānkara Bhāshya) Chapter-3:1,2

preview_player
Показать описание
53-Bhagavad Geetā (Shānkara Bhāshya) Chapter-3:1,2
अर्जुन उवाच —
ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन ।
तत्किं कर्मणि घोरे मां नियोजयसि केशव ॥ १ ॥
ज्यायसी श्रेयसी चेत् यदि कर्मणः सकाशात् ते तव मता अभिप्रेता बुद्धिर्ज्ञानं हे जनार्दन । यदि बुद्धिकर्मणी समुच्चिते इष्टे तदा एकं श्रेयःसाधनमिति कर्मणो ज्यायसी बुद्धिः इति कर्मणः अतिरिक्तकरणं बुद्धेरनुपपन्नम् अर्जुनेन कृतं स्यात् ; न हि तदेव तस्मात् फलतोऽतिरिक्तं स्यात् । तथा च, कर्मणः श्रेयस्करी भगवतोक्ता बुद्धिः, अश्रेयस्करं च कर्म कुर्विति मां प्रतिपादयति, तत् किं नु कारणमिति भगवत उपालम्भमिव कुर्वन् तत् किं कस्मात् कर्मणि घोरे क्रूरे हिंसालक्षणे मां नियोजयसि केशव इति च यदाह, तच्च नोपपद्यते । अथ स्मार्तेनैव कर्मणा समुच्चयः सर्वेषां भगवता उक्तः अर्जुनेन च अवधारितश्चेत् , ‘तत्किं कर्मणि घोरे मां नियोजयसि’ (भ. गी. ३ । १) इत्यादि कथं युक्तं वचनम् ॥ १ ॥
किञ्च—
व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे ।
तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् ॥ २ ॥
व्यामिश्रेणेव, यद्यपि विविक्ताभिधायी भगवान् , तथापि मम मन्दबुद्धेः व्यामिश्रमिव भगवद्वाक्यं प्रतिभाति । तेन मम बुद्धिं मोहयसि इव, मम बुद्धिव्यामोहापनयाय हि प्रवृत्तः त्वं तु कथं मोहयसि ? अतः ब्रवीमि बुद्धिं मोहयसि इव मे मम इति । त्वं तु भिन्नकर्तृकयोः ज्ञानकर्मणोः एकपुरुषानुष्ठानासम्भवं यदि मन्यसे, तत्रैवं सति तत् तयोः एकं बुद्धिं कर्म वा इदमेव अर्जुनस्य योग्यं बुद्धिशक्त्यवस्थानुरूपमिति निश्चित्य वद ब्रूहि, येन ज्ञानेन कर्मणा वा अन्यतरेण श्रेयः अहम् आप्नुयां प्राप्नुयाम् ; इति यदुक्तं तदपि नोपपद्यते ॥
यदि हि कर्मनिष्ठायां गुणभूतमपि ज्ञानं भगवता उक्तं स्यात् , तत् कथं तयोः ‘एकं वद’ इति एकविषयैव अर्जुनस्य शुश्रूषा स्यात् । न हि भगवता पूर्वमुक्तम् ‘अन्यतरदेव ज्ञानकर्मणोः वक्ष्यामि, नैव द्वयम्’ इति, येन उभयप्राप्त्यसम्भवम् आत्मनो मन्यमानः एकमेव प्रार्थयेत् ॥ २ ॥
Рекомендации по теме